|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.39. अध्यायः 039
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रति सत्वगुणकार्यनिरूपणम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्॥ 14-39-1(93432)
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता॥ 14-39-2(93433)
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः॥ 14-39-3(93434)
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते॥ 14-39-4(93435)
निर्ममो निरहङ्कारो निराशीः सर्वतः समः।
अकामहत इत्येव सतां धर्मः सनातनः॥ 14-39-5(93436)
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता।
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम्॥ 14-39-6(93437)
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम्॥ 14-39-7(93438)
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता॥ 14-39-8(93439)
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम्।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः॥ 14-39-9(93440)
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः॥ 14-39-10(93441)
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः॥ 14-39-11(93442)
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव॥ 14-39-12(93443)
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः॥ 14-39-13(93444)
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च।
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति॥ 14-39-14(93445)
प्रकीर्तिताः सत्त्वगुणा विशेषतो
यथावदुक्तं गुणवृत्तमेव च।
नरस्तु यो वेद गुणानिमान्सदा
गुणान्स भुङ्क्ते न गुणैः स युज्यते॥ ॥ 14-39-15(93446)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-39-7 हर्षः पुत्रजन्मादिजं सुखम्। तुष्टिरलबुद्धिः। शान्तिकर्मणि मुक्त्युपाये शुद्धिः आर्जवेन प्रवृत्तिः॥ 7-39-8 उपेक्षा औदासीन्यम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|